||Achyutashtakam ||

॥ अच्युताष्टकं ॥

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

॥ओम् तत् सत्॥

अच्युताष्टकं

अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् |
श्रीधरं माधवं गोपिका वल्लभं
जानकीनायकं रामचंद्रं भजे ‖ 1 ‖

अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिका राधितम् |
इंदिरामंदिरं चेतसा सुंदरं
देवकीनंदनं नंदजं संदधे ‖ 2 ‖

विष्णवे जिष्णवे शंकने चक्रिणे
रुक्मिणी राहिणे जानकी जानये |
वल्लवी वल्लभायार्चिता यात्मने
कंस विध्वंसिने वंशिने ते नमः ‖ 3 ‖

कृष्ण गोविंद हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे |
अच्युतानंत हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ‖ 4 ‖

राक्षस क्षोभितः सीतया शोभितो
दंडकारण्यभू पुण्यताकारणः |
लक्ष्मणोनान्वितो वानरैः सेवितो
अगस्त्य संपूजितो राघवः पातु माम् ‖ 5 ‖

धेनुकारिष्टकाऽनिष्टिकृद्-द्वेषिहा
केशिहा कंसहृद्-वंशिकावादकः |
पूतनाकोपकः सूरजाखेलनो
बालहोपालकः पातु मां सर्वदा ‖ 6 ‖

बिद्युदुद्-योतवत्-प्रस्फुरद्-वाससं
प्रावृडम्-भोदवत्-प्रोल्लसद्-विग्रहम् |
वान्यया मालया शोभितोरः स्थलं
लोहिताङ्-घिद्वयं वारिजाक्षं भजे ‖ 7 ‖

कुंचितैः कुंतलै भ्राजमानाननं
रत्नमौळिं लसत्-कुंडलं गंडयोः |
हारकेयूरकं कंकण प्रोज्ज्वलं
किंकिणी मंजुलं श्यामलं तं भजे ‖ 8 ‖

अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् |
वृत्ततः सुंदरं कर्तृ विश्वंभरः
तस्य वश्यो हरि र्जायते सत्वरम् ‖

||ओम् तत् सत्॥

|| Om tat sat ||